कइसे जियब ए जान...

तोरा  बिना  हम  कइसे  जियब ए जान. अन्दरे   हमर   दिल   खखोरैत  हे परान.               दिलवा   हमर  तो   हे  केतना  नादान,                तनिको   ना    रह   हे   एकरा  धेयान. चोरी - चोरी  रोज  हम  करहिओ बात, तैयो  ना   जिउआ  हमर  जुड़ा हे जान.                   मोबलिया से  हमर  मनमा ना भर हौ,                    मिलेला  मनमा अबतो खूब छछन हौ.  दुखवा के तू कब  आके करब निदान, मिलेला   तोरा  से  छछनैत   हौ प्रान.                                       -धर्मेन्द्र कुमार पाठक.

भजन शतकस्य कवे: कृष्ण-भक्ति: -स्व.डॉ. सुरेश पाठक:

स्व. आचार्य कृष्ण देव पाठक:
'भजन' शब्द: 'भज' सेवायाम् धातुना निर्मितमस्ति। भगवत: सेवा काव्य-माध्यमेन क्रियते तत् भजनम् कथ्यते। पुस्तकस्य नाम भजन शतकमस्ति। भजन शतमधिकमेव रचना: संति अस्मिन पुस्तके। पुस्तकस्य रचयिता पं. कृष्णदेव पाठकोSस्ति। रचना गणेश वंदनया प्रारभ्यते। यत: सृजनकार्य: निर्विघ्नेन भवेत् अतः गणेश  वंदना क्रियते। तत: गुरु-वंदना अस्ति। गुरो: कृपां विना कोSपि विद्वान् न भवति। अतः कविना गुरो: स्मरणं वंदनं च कृतम्। कवे: गुरु: पं. देवदत्त मिश्ररासीत्। अयं महानुभाव: गया नगरे व्रजभूषण संस्कृत महाविद्यालयस्य प्राचार्य: आसीत्। स: महान् वैयाकरण षट् शास्त्रवेत्ता चासीत्।स: तमध्यापितवान। तत: पुस्तके सरस्वती-वंदना कृता। अनन्तरे कृष्णकथा वर्णिता। इयम् कथा ब्रह्मवैवर्त, देवीभागवत,गर्ग संहिता, मत्स्य पुराण, महाभारत खिल भागे आदिषु ग्रंथेषु वर्तते। पर ब्रह्म परमात्मा निराकार: साकारश्चास्ति। सर्व प्रथम: स: एकाकी अस्ति। स: इच्छति -'एकोSहम् बहुस्याम्'। कन्या इच्छया तस्य वाम भागेन एका नारी: नि:सृता भवति। सा राधा अस्ति या लीलायाम् सहभागिनी: भवति। इयं भगवत: कृष्णस्य शक्तिरस्ति। भगवान् राधा शक्तया पूर्णो वर्तते। शक्तिं विना तस्य अस्तित्वमेव नास्ति अर्थात् स: अपूर्ण:। कृष्ण-प्राप्त्यर्थं भगवत्या: राधाया: उपासनाSनिवार्या। तां कृपां विना भगवत: दर्शनं दुर्लभं। कथित: -'राधा शक्ति विना ना कोई श्यामल दर्शन पावे'। 'रा' शब्दं श्रुत्वा स्फीतो भवति माधव:। 'धा' शब्दं श्रुत्वा भक्तस्य समीपे प्रकटयति।
लीला गोलोके भवति। कृष्णेन गोपा: जाता: राधया गोपीका: जाता:। गोलोके रासमण्डलमस्ति। इयं रासमण्डलस्य स्वामिनी वर्तते तस्यारनुमतिं विना कस्यापि प्रवेश: नास्ति रासे। राधया एको पुत्र: जात:। स: विराट् कथ्यते। ऋग्वेदस्य पुरुष सूक्ते कथित: -'ततो विराडSजायत'। अयमेव ब्रह्मवैवर्त पुराणस्य विराट् या: कविना कथितम्। भगवत: पुत्र: पूर्णोSस्ति। यत: श्याम पूर्णो। कथित: ईशावास्योपनिषदि -'पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते'। माता तं पुत्रं त्यजति। माधव: पुत्रस्य त्यागस्य कारणो ज्ञातुमिच्छति।राधा किंचिद् न वदति। ब्रह्मा, शिव, सरस्वती , दुर्गादिभि: भगवत: जनार्दनस्यास्तुति: क्रियते। गंगा लक्ष्म्यादि : वैकुण्ठे गंतुम् आदेशो भवति। नारायण: सृष्टिं रचयितुम् विचारयति। गंगा, रमा, सरस्वती सर्वा: देव्य: वैकुंठे आगता:। एकदा  तोय पूर्णं ब्रह्मांडे भगवान् प्रकटित:। तस्मिन जलाशये स: निज स्वरूपमपश्यत्। स: स्वरूप: भगवत तुल्यो दृष्ट:। तं  दृष्टवा पिता हर्षमनुभवति। तदा भगवन्नारायण: कथम् न विराजं पुत्रं दृष्टवा प्रसन्नो भवेत्? प्रभु: सृष्टिं कर्तुम् विराजमुपदिशति। विराट् पितु: स्तुतिं करोति। स: मां स्वीकरोति। विष्णो: कर्णयो: नि:सृतेन मलेन दैत्यो जातौ। तौ पितामहं हन्तुमुद्यतौ आस्ताम्। दुर्गया प्रेरणया ब्रह्मणा स्तुत्या च विष्णुना जंघास्थले तौ हतौ। इयं मेदिनी पृथ्वी कथ्यते। ब्रह्मण: भृकुट्या: एकादश रुद्रा: जाता:। शिव नेत्रै: ब्रह्मांडे भू-पर्वता: क्षितिजा: जाता:। ब्रह्मण: नारद मरीच्यादृशा पुत्रा: जाता:। विधातैव मनु: शतरूपा च जातौ। भागवत पुराणे अनयो: वंशजानाम् वर्णनम् दर्शनीयम्।
गोलोके कृष्ण: गोप्या सह वार्त्तालापे संलग्नो आसीत्। श्रीदामा तत्र द्वारपालकरासीत्। स: तत्रागत:। राधया प्रवेश-निषेधं कृतम्। साSवोचत् -"अत्र मया प्रवेश निषेधं कृतम्। त्वं कथमागत:। अतः दैत्यो भव। श्रीदामाSपि राधां शशाप -मात:! त्वं शत वर्षाणि पर्यन्तं कृष्णवियोगिनी भव। एतेन कारणेन राधाकृष्णयो: वियोग: शतवर्षाणि पर्यंतं जात:। तत: संतनो चर्चाSस्ति। अनन्तरं भक्त नरसी: भक्तया शिवं प्राप्तवान्। शिवेन वरं याचितुम् कथित:। नरसी तस्य इच्छया वरं ऐच्छत्। शंकर: तं गोलोके कृष्णस्य समीपे अनयत्। भारते कृष्णावतारस्य कारणं वर्ण्यते। दैत्यानाम् पूर्वज: मरीचरभूत्। तस्य वंशधारी: कंस: द्वापरे जात:। तस्योपद्रवेण पृथ्वीः त्रस्ता जाता। रुदन्ती  इन्द्रस्य समीपे गता च।इन्द्रः तां नीत्वा ब्रह्मलोके गतः। शिवः सर्वे सह वैकुण्ठे गतः। तत्र विमानं दृष्ट्वा एका प्रहरिणी चन्द्रानना तत्रागता। सा अवोचत् -भगवतागमनस्य कारणं ज्ञातमत्र। भवतां स्वागतम् तिष्ठन्तु। गोलोके श्यामवर्णो कृष्णः राधा गौरवर्णाSSसीत्।  जनार्दनः पितामहमाह -गोलोकवासी द्रोणकः नन्द नाम्ना भूतले भविष्यति। तस्य मित्रः वृषभानुरपि भविष्यति। देवमाता अदितिः  देवकी कश्यपश्च वासुदेवः भविष्यतः। मनुः अर्जुनः तस्य पत्नी सुभद्रा च भविष्यतः। श्रीदामादयाः मम मित्राः भविष्यन्तिः। एकशत सहस्र राजकन्या:मम पत्न्यः वेद ऋचा भविष्यन्ति। रामावतारे तेषां कामनया मया सह विवाहरासीत्। ताः कृष्णावतारे जाया; मे भविष्यति। पृथिव्यां सुर्यांशेन कर्णः भविष्यति। युधिष्ठिरः विदूरो च धर्मराजः कलियुगः तु दुर्योधनः भविष्यन्ति। एकस्याम वेलायाम् भूतले अवतरतुम् राधाकृष्णयोः वार्त्तालापो भवति। यथावतरतुम् योजना योज्यते। सा भूमि: वृन्दावनमस्ति। तं कृष्णः कदापि न त्यजति। कथितः -'वृन्दावनं परित्यज्य  क्षणमेकं न गच्छति'।अद्यापि कृष्णस्य रास: रात्रौ भवति। तत्र मनुष्यः तु किं कोSपि जीवः न अस्ति। गोलोकात् मित्र मंड़ली: अवतरिष्यति।वृन्दावने श्याम जलपूर्णा यमुना  नदी: गोवर्धन पर्वताश्चास्त:। मथुरायाम् नवमास पर्यन्तम् गर्भे वसित्वाSवतरिष्यामि। मातुः देवक्या: प्रार्थनया बालरूपे भविष्यामि। अहं नन्दस्य गृहे गमिष्यामि; नन्दस्य पुत्री देवी मथुरायामागत्य कंसेन वध काले  अष्टबाहुधारिणी भूत्वा विंध्याचले  गमिष्यति। अहम् तु दशवर्षं पर्यन्तं नन्द यशोदयो: गृहे वसिष्यामि। वृन्दावने अनेकान् राक्षसान् हत्वा मथुरायाम् कंसं हनिष्यामि।
कृष्णावतारस्य काले कारागारेबद्धा: श्रृंखला: भग्ना: जाता। सर्वे प्रहरिणः सुप्ता:। कपाटा: बंधन मुक्ता: अभवन्। वसुदेवः तं बालकं नीत्वा नन्द गृहमचलत्। यमुनायाम् प्रभूतजलमासीत् परन्तु सा स्वलप्तोयाSभवत्। तां बालिकाम् हन्तुम् कंसस्य हस्तात् सा उन्मुक्ताSभवत्। सा आकाशे गत्वा प्राह -रे दुष्ट ! तव हन्ता जात:। कृष्णम् हन्तुम् दुग्धपान कारिणी पूतना तेन नन्द शिशुना हता। अघासुर वकासुरदयानाम् मृत्युः श्यामसुन्दरेणाभवत्। कालीय दहे नाग:भगवता हत:। स: गोवर्धन पर्वतं अङ्गुल्यां स्थापितवान् निशा सप्त पर्यन्तं। ऋषि: दुर्वासा वासुदेवस्य मानवीय लीलाम् दृष्ट्वा  भ्रमितोSभवत्। अतः परिक्षुम् योजना निर्मिता। प्रथमे तेन नारदस्य समीपे शंका प्रकटिता।तेन कथितं यत् अयं गोलोकवासी वासुदेवो अस्ति, परन्तु स: विश्वस्तोनाSभवत्। अतः वृन्दावनं गत्वा यशोदामपृच्छत् -इदानीं श्यामसुंदर: कुत्रास्ति? माता यशोदाSवोचत् -स: कालिन्द्या:  कूले बालिकै: सह कुर्दति। तस्य मस्तके केशा विशीर्णा: दृष्टा। वट वृक्षस्य छायायाम् ऋषि: मौनं धारयित्वाSतिष्ठत्। भगवान् ऋषिम् पृच्छत् -पितामह ! किं पश्यति भवान्? दुर्वासा लुप्तो भूत्वा दूरस्थे गोलोके गतः। तत्र द्वारपालः ऋषिम् दृष्ट्वाSपृच्छत् -अरे मानव ! कुतः त्वमागतः? अस्मिन गोलोके सशरीरमागत्य किमिच्छसि? ततः कस्मिन तेजस्वी कुण्डल किरीट भूषणधारी पुरुषः तत्रागत:। द्वारपालस्य प्रसादात् तत्र कृष्णमपश्यत्। निज भ्रमेण स: ज्ञातोSभवत्।तं द्वारपालमप्रार्थयत् यत् स: भूतले भगवन्तं द्रष्टुं कामयति। भूतले वृन्दावने कृष्णम् दृष्ट्वाSचिंतयत् अत्र कृष्णस्य साम्यः गोलोकनाथेनास्ति। तत्र तस्य चरणरजं लेलिह्यते, चरणौ च नेत्राश्रुणाSसिंचयत्।गोलोकनाथः करे लगुडेन सहितं वृक्षतले दृष्ट्वान्। स: बाहुभ्यां ऋषिं उत्थापितवान्। तापसः सगद्गदमभवत्।
ततः कृष्णस्य विवाह-कथा वर्ण्यते कविना। इयं कथा संक्षेपे वर्णिता। पूर्वं परम-कृष्ण-भक्तेन हरिनाथेन सरस कथा संगीत रागेषु वर्णिता ललित भागवत काव्ये। ब्रह्मणा देवराजेन सह राधाकृष्णयोः विवाहः आयोजितः। नन्दं कृष्णम् निज क्रोडे नीत्वा तत्रागत:।तौ भाण्डीर वने गर्गाचार्येण सह मिलितौ। पुरानन्दः द्रोणो आसीत्। विवाहोSयं गुप्तरीत्यायोजितः। विनम्रः वृषभानु कथितवान् यत् विवाहोSयमुचितः, वैषम्योनास्ति।तेन शकट नवरत्नानि दीयते तस्य द्विगुणं प्राप्तं नन्द सूनु: गो-समूहेन तत्रागत:। सूर्यास्त समयो प्राप्तः। भूमौ रत्नबीजानि वप्यन्ते। अष्टादश रत्न शकटानि देया:। इति श्रुत्वा नंदोSहसत्। रत्नजालमारोपितम्। द्वितीय दिने रत्नजालं द्विगुणं फलितं। लोकरीत्या श्यामश्यामयोः विवाहोSभवत्। वृषभानुना विवाहावसरे उपस्थितानांजनानां स्वागतं पूर्ण रूपेण कृतं। 
एकदा काम कृष्णयोर्मध्ये संगरोSभूत्। युद्धे कामस्य मानमर्दनमभवत्। अतः सः तस्य पादयो: अपतत्। तेन कथितं यत् शिवेन सह युद्धेन सः पराजितोSभूत। सः पुनरवोचत् यत् विश्वे कोSपि नास्ति येन सह युद्धे मम विजयो नाSभवत्। मात्र भवतः समीपे अहम् शक्तिहीनोSस्मि। कृष्णस्य रासक्रीडायाम् मूर्खाणामारोपरभवत् यत् सः कामी एवासीत्। परन्तु विचारणीयोSयं यत् रासे बाल वृद्ध पुरुषास्त्रयश्चासन्। भगवान् तु योगीराट् आसीत्। गोपिकानांम् चीरहरणेSपि कृष्णस्योपदेशः वर्तते यत् नग्न स्नानेन व्रत फलं नष्टं भवति। गोपिकाः तु कृष्णम् पतिरूपेण प्राप्त्यर्थं व्रतं कुर्वन्। केचित् वदन्ति यत् कृष्णः नवनीत-चौररासीत्। गोप्यः इच्छन्ति स्म यत् सः अस्माकं गृहे आगत्य नवनीतं भक्ष्येत्। अतः मित्रै: सः ताषाम् गृहेषु गत्वा नवनीतमाखादत् मित्रेभ्यः चाददात्। जनार्दनः माणिक्य चौरोSपि कथ्यते, परं च दोषीः कश्चिदन्यासीत्। समय एवं लग्न दोषेण नारायणेव दोषी मन्यते। चौरः तु सिंहरासीत्।तं माणिक्यन्वेषणाय गह्वरे गतः सः। तत्र जामवान वसति स्म। सः निज पुत्रीं जामवतीं कृष्णाय समर्पितवान्। युधिष्ठिर: विश्व विजय यज्ञं अनुष्ठितवान्। सः यज्ञमुद्दीश्य अश्वं मुक्तवान्। तस्य मुख्य रक्षकः पार्थोतमन्वगच्छत्। तं घोटकं एकेन राज्ञा बद्धः। शस्त्रास्त्र पूर्ण युद्धे घोटकः मुक्तोनाSभवत्। गोपीनाथः शत्रो: समीपे गतः। प्रभुः घोटक- बंधकेन मिलितः। अश्वः पार्श्वे खेलति स्म। तत्र वभ्रूवाहनः कार्यकर्त्ताSSसीत्। पार्थमभिज्ञात्वा वभ्रूः उलूपिं नीत्वाSकथयत् यत् अश्व-बन्धः भ्रान्त्याSभवत्। अतः खेद व्यक्तं करोति। क्षमा प्रार्थी:भूत्वा त्वमागतः।अर्जुनः क्रोधीरमभवत्। यतः पार्थं पुंश्चली सूनूरकथयत्। संगरो प्रारब्धः। पार्थस्य मुण्ड विच्छेदोSभवत्। अर्जुनस्य मृत्यु सम्बंधितं  स्वप्नं कुन्ती: दर्दश। अतः सा कृष्णेन सह आगता तत्र। ब्रह्मचर्य बलेन कृष्णेन मुण्डः योजितः। अतः कृष्ण: परदारागामी नास्ति। अज्ञा: आरोपमिदं कुर्वन्ति।सुधा-घटः तत्रागत:। कृष्णेन वभ्रूणा च मुण्डः सिंचितः। अर्जुन स्वप्न्वत् समुत्थितः। अयं कृष्णस्य ब्रह्मचर्य: दृष्ट:।वभ्रो माता नागराज-दुहिताSSसीत्।कविना ब्रह्मचर्यस्य व्याख्या करोति यत् निज पत्न्यासह सम्बन्धः ब्रह्मचर्यः। तस्यापि  त्यागी तु  महाब्रह्मचारी: कथ्यते। कृष्णः तस्याम् परीक्षामुत्तीर्णोभवत्।
धृतराष्ट्रस्य राजसभायां चीरहरण्यावसरे तया कृष्णः आह्वायितः। तस्य क्रन्दनं श्रुत्वा भगवान् तत्रागत:।चीरैव लज्जा मर्यादा वा नारीणां। यदि कश्चित् पुरुषःकस्याः स्त्रियः वस्त्राहरणेन अपमानं करोति, तस्मिन् समये तस्याः दुःखस्य कल्पना मात्रेण अत्यन्तः दुःखः भविष्यति। इदृशी घटनया नराणां शिराः लज्जया निम्ना: भविष्यन्ति। कविः कथयति यत् तस्यां सभायां भीष्मः दुःखी भूत्वा वस्त्रोपहारिणाम् निन्दां करोति; परन्तु, तस्योपदेशं श्रृणोति कोSपि। तस्मिन् समये कृष्णरागत्य वस्त्रं ददाति। सः प्रकटी भूत्वा कथयति यत् एकदा तस्यांगुल्यां ब्रण रक्षणाय तया निज साटिकाम् कर्तयित्वा तस्याः भागेन अँगुलीम् अबंधत्। अतः मया तुभ्यं वस्त्र दानं कृतं; लज्जा रक्षणं कृतं च। एतेन भगवान् दीन-बन्धु: कथ्यते। परन्तु,विश्वासपूर्वकं तस्याह्वानस्यावश्यकता वर्तते। सः दूरे नास्ति, समीपे विद्यते। तुलसी दल मात्रेण सन्तुष्टो भवति। सः प्रेमीरस्ति; अतः समर्पणमिच्छति। जगति सर्वं कृष्ण-प्रदत्तमस्ति। महाभागायाः द्रौपद्याः कथयामयमेव भावः। 
कृष्णसुदामयो: कथा 
सुदामा एको निर्धनः ब्राह्मणो आसीत्। दारिद्र्यार्त्ता तस्य पत्नी एकस्मिन् दिने निज पतिं कृष्ण गृहं द्वरिकाम् गन्तुं निवेदयति। बाल्यावस्थायां कृष्ण सुदामा गुरोः पाठशालायां पठितवन्तौ। अतः मित्रौ आस्ताम्।सुदामा तु भक्तः आसीत्। परन्तु भक्तः तु न किंचिंदिच्छति। अतः निज दरिद्रतया किंचिंत् याचितुं नैच्छत्। परन्तु पत्न्यां: इच्छाम् पालनाय सः कृष्णस्य द्वारिकाम् गतः। कृष्ण मन्दिरस्य द्वारपाल माध्यमेन निजागमनस्य सूचना प्रेषिता। विप्रस्य सुदाम्नःआगमनस्य समाचारं श्रुत्वा कृष्णः झटित्यागत्य सुदामां आलिंगितवान्। रत्न तल्पे आसनं अददात् निज कराभ्यां तस्य चरणौ प्रक्षालितवान् तदा अकथयत् -"मित्र! अवश्यमेव भातृजायया मह्यं किंचित् उपहारं दत्तं"। लज्जया तण्डुलं दातुम् नेच्छति स्म। परन्तु भगवता प्राप्तमास्वादिम् च मुष्टिका द्वयं तण्डुलं। अधिक भक्षणेन रुक्मिणी देव्या रोधितः। सा अवदत् -"यत् लोक द्यस्य सम्पदं दत्तं भवता"। किंचिद् दिवसं कृष्णस्य स्वागतं भुक्त्वा सः गृहं गन्तुं इच्छाम् व्यक्तवान्। कृष्णस्य रथे आरोह्यगृहं गतवान् कृष्णेन प्रत्यक्षे न किंचित् प्रदत्तं सुदामा निज गेहं प्रत्यागतः तदा तस्य कुटीरस्य स्थाने स्वर्ण भवनमासीत्। सः अचिंतयत् यत् पत्नी मे सती अस्ति। द्रव्यहीना चास्ति। ब्राह्मणी: आगता अकथयत् यत् रात्रौ एकेन देवेन भवनं निर्मितं धन धान्यं पूर्णं कृतं च। सुदामा पत्नीं अकथयत् यत् कृष्णः परमात्मा अस्ति; सः गोलोकादागत: याचनां विना प्रभुः स्वेच्छया भक्तेभ्यः ऋद्धिं सिद्धिं च ददाति। अतः आवाम् कृष्ण-नाम जापं कुर्यातां।
मीरायाः कथा 
परम भक्तिमति मीरा सखिभिः वार्त्तालापो संलग्ना। एकस्मिन दिने सा मातरम् निज विवाहार्थं निवेदयति। माता कृष्ण मूर्तिं दत्वा प्रवोचत् -"अयं कृष्णः त्वं पतिरस्ति"। भक्त मत्यै मीरायै सः प्रकटो भवति। मीरा कृष्णयो: मध्ये वार्त्तालापो भवति।पिता चिंतितो भवति। बद्ध कपाटं बंध मुक्तं कर्तुं पिता कथयति। मुक्त कपाटन्तरम् कोSपि नास्ति।तस्या उद्वाहार्थं योजना योज्यते। मीरा विवाह-विरोधिनी:तथापि तस्याः विवाहः भवति।पतिः पृच्छति -"त्वया सह वार्त्ताकारी कः कुत्र गतः च? मीरा स्वश्रूम् निवेदयति यत् साSव्रते संलग्ना। अतः पतिना सह मिलनं न करिष्यति। मीरां हन्तुं दग्धाग्नि-काष्ठ: शीतलो भवति। मीरा निश्चितमेव जापकर्तृरस्ति। अतः इमाम् हन्तुं उद्योगः असफलो जातः। श्वसुरः विचारयति तस्याः समीपे पश्चातापं करोति च। मीराया: गुरुः भक्त प्रवरो रैदासः कथ्यते। 
सम्पादकः -धर्मेन्द्र कुमार पाठकः                                                                                                                                                  

टिप्पणियाँ

एक टिप्पणी भेजें

इस ब्लॉग से लोकप्रिय पोस्ट

मोहब्बत -धर्मेन्द्र कुमार पाठक

क्यों तुम रूठ गई? -धर्मेन्द्र कुमार पाठक

What to do after 10th (दसवीं के बाद क्या करें)-धर्मेन्द्र कुमार पाठक